
Online Pujan in Ujjain अष्टोत्तरशत सूर्य स्तोत्र'...

Online Pujan in Ujjain अष्टोत्तरशत सूर्य स्तोत्र' धौम्य उवाच सूर्योअर्यमा भगस्त्वष्टा पूषार्क सविता रविः। गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ।।प्रथिव्यापश्च तेजश्च खं वायुश्च परायणं। सोमो बृहस्पतिः शुक्रो बुधोअंगारकः ।।इन्द्रो विवस्वान दीप्तांशुः शुचिः शौरिः शनैश्चरः। ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणौ यमः ।।वैद्युतो जाठरश्चाग्निरैंधनस्तेजसां पतिः। धर्मध्वजो वेदकर्ता वेदांगों वेदवाहनः ।।कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः। कला काष्ठा मुहूर्त्ताश्च क्षपा यामस्तथा क्षणः ।।संवत्सरकरोअश्वत्थः कालचक्रो विभावसुः। पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ।।कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः। वरुणः सागरोंशश्च जीमूतो जीवनोरिहा ।।भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः। स्त्रष्ठा संवर्तको वहिनः सर्वस्यादिरलोलुपः ।।अनन्तः कपिलो भानुः कामदः सर्वतोमुखः। जयो विशालो वरदः सर्वधातुनिषेचिता ।।मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः। धन्वन्तरिर्धूमकेतुरादिदेवो दिते सुतः ।।द्वादशात्मारविन्दाक्षः पिता माता पितामहः। स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।।देहकर्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः। चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ।।एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः। नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयंभुवा ।।सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्। वरकनकहुताशनप्रभम प्रणिपतितोस्मि हिताय भास्करं ।। सूर्योदये यः सुसमाहिताः पठेत् स पुत्रदारान धन रत्न संचयान। लभते जातिस्मरतां नरः सदा धृतिं च मेधा च स विन्दते पुमान् ।। इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः। विमुच्यते शोकदवाग्निसागराल्लभेत कामान् मनसा यथेप्सितान् ।।
Keywords
Subscribe for latest offers & updates
We hate spam too.
